śrīchakrabhēdāḥ

 

नमस्त्रिपुरसुन्दर्यै

त्रैविध्यं तस्य चक्रस्य भूप्रस्तारोर्ध्वमेरुकम् |
पातालवासिनां देवि प्रस्तारो निम्नरेखकम् ||
ऊर्ध्वरेखो महेशानि मर्त्यलोकनिवासिनाम् |
स्वर्ग्लोकादिवासानां बैन्दवान्तं महेश्वरि |
क्रमात् समुन्नतं सर्वं मेरुरूपं मयोदितम् ||

श्रीचक्रं त्रिविधं प्रोक्तं सृष्टिस्थितिलयात्मकम् |
मूलभेदा नवैव स्युः तत्प्रभेदाह्यनेकधा ||

सृष्टिसृष्ट्यात्मकं स्थितिस्थिति लयलयात्मकं इति त्रिविधम् |
सृष्टिस्थिति स्थितिसृष्टि सृष्टिलयं इति त्रिविधम् |
लयसृष्टि लयस्थिति लयलयात्मकं इति त्रिविधम् |
एवं नवभेदाः | एवं सर्वे द्वादशभेदाः ||

सृष्टिचक्रं समाख्यातं नवचक्राण्यनुक्रमात् |
अन्ततोन्नतमामध्यं विज्ञेयं देशिकोत्तमैः ||
श्रीचक्रं सृष्टिसृष्ट्याख्यं प्रतिरेखं ततोन्नतम् |
समोर्ध्वरेखानवकं समे पीठे च पद्मवत् ||
स्थितिचक्रं तदेवोक्तं स्थूलरेखं महेश्वरि |
सूक्ष्मरेखं भवेत्तत्र स्थितिस्थित्यात्मकं शिवे |
लयात्मकं निम्नरेखं स्थूलं लयलयात्मकम् ||
अर्धमेर्वात्मकं यन्त्रं द्विधाख्यातं महेश्वरि |
अर्धक्रमादुन्नतं यच्चतुरस्रादितस्ततः ||
तदूर्ध्वं समरेखं स्यात् सृष्टिस्थित्यात्मकं शिवे |
वैपरीत्ये न चैतस्य स्थितिसृष्ट्यात्मना भवेत् ||
चतुरस्रं समारभ्य चक्रत्रयमपीश्वरि |
क्रमोन्नतं तदूर्ध्वं तु समं स्यान्निम्नरेखकम् ||
सृष्टिसंहाररूपं स्याद्वैपरीत्येन तस्य तु |
लयसृष्ट्यात्मकत्वं तु प्रोक्तं ज्ञेयं मनीषिभिः ||
अर्धपातालरेखं तु तदूर्ध्वं चोर्ध्वरेखकम् |
लयस्थित्यात्मकं प्रोक्तं वैपरीत्येन तस्य तु |
स्थितिसंहाररूपं तु विज्ञेयं देशिकोत्तमैः ||

स्थितिस्थित्यात्मकं चक्रं प्रशस्तं गृहमेधिनाम् |
आयुः कीर्तिधनारोग्यं पुत्रपौत्रविवर्धनम् ||
सृष्टिस्थित्यात्मकं चक्रं अप्रजत्वं श्रियं भवेत् |
पञ्चाशद्वर्षतश्चोर्ध्वं पुत्रपौत्रप्रदं भवेत् ||
सृष्टिस्थित्यात्मकं चक्रं पुत्रायुर्धनवृद्धिदम् |
पञ्चाशद्वर्षतश्चोर्ध्वं अपत्यध्वंसकृत् भवेत् ||
अन्ये प्रोक्तास्तु ये भेदाः श्रीचक्रस्य महेश्वरि |
यतिवैखानसानां तु विशेषो वर्णिनामिति ||

सृष्टिचक्रं महेशानि पूजा सृष्ट्यन्तता भवेत् |
स्थितिचक्रे तु स्थित्यन्ता संहारे तु लयान्तता ||
गुरुपारंपर्यतो वा पितृभ्रातृक्रमाच्च वा |
प्राप्तं श्रीगुरुणा दत्तं गुरुज्येष्ठकनिष्ठकैः ||
दत्तं भाग्यवशाद्देवि लभ्यते यदि साधकः |
पूजां तत्र प्रकुर्वीत स्थित्यन्तां परमेश्वरि |
दुष्टयन्त्रमिति प्रोक्तं फलदं नान्यथा शिवे ||
सृष्टिक्रमेण देवेशि पूजनीयं प्रयत्नतः |
मेरुचक्रे तु संहारक्रमपूजा न विद्यते ||
भूप्रस्तारे महेशानि स्थितिपूजा सदोत्तमा |
संहारपूजा कैलासप्रस्तारेऽत्र विधीयते |
स्थितिक्रमो गृहस्थस्य संहारो वनिनो यतेः ||

 

Facebook
Twitter
LinkedIn