kalkin
By Sri Kamakoti Mandali on Mar 3, 2010 | In Society, Bhakti
Those who seek refuge in the lotus feet of bhagavAn vAsudeva alone shall attain true nityAnanda. Other Pashandins shall face the wrath of Lord Kalki and his mighty sword.
इत्थं कलौ गतप्राये जनेषु खरधर्मिषु |
धर्मत्राणाय सत्त्वेन भगवानवतरिष्यति ||
चराचरगुरोर्विष्णोरीश्वरस्याखिलात्मनः |
धर्मत्राणाय साधूनां जन्मकर्मापनुत्तये ||
शम्भलग्राममुख्यस्य ब्राह्मणस्य महात्मनः |
भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ||
अश्वमाशुगमारुह्य देवदत्तं जगत्पतिः |
असिनासाधुदमनमष्टैश्वर्यगुणान्वितः ||
विचरन्नाशुना क्षौण्यां हयेनाप्रतिमद्युतिः |
नृपलिङ्गच्छदो दस्यून्कोटिशो निहनिष्यति ||
अथ तेषां भविष्यन्ति मनांसि विशदानि वै |
वासुदेवाङ्गरागाति पुण्यगन्धानिलस्पृशाम् ||
पौरजानपदानां वै हतेष्वखिलदस्युषु |
तेषां प्रजाविसर्गश्च स्थविष्ठः सम्भविष्यति ||
वासुदेवे भगवति सत्त्वमूर्तौ हृदि स्थिते |
यदावतीर्णो भगवान्कल्किर्धर्मपतिर्हरिः ||
कृतं भविष्यति तदा प्रजासूतिश्च सात्त्विकी |
एकराशौ समेष्यन्ति भविष्यति तदा कृतम् ||
| « Trika - The Missing Pieces | bhaja re re chitta .... » |

