mahAvidyA
By Sri Kamakoti Mandali on Mar 6, 2010 | In Srividya
नमो वेदान्तवेद्ये ते नमो ब्रह्मस्वरूपिणि |
समायया सर्वजगद्विधात्र्यै ते नमो नमः ||
भक्तकल्पद्रुमे देवि भक्तार्थं देहधारिणि |
नित्यतृप्ते निरुपमे भुवनेश्वरि ते नमः ||
अस्मच्छान्त्यर्थमतुलं लोचनानां सहस्रकम् |
त्वया यथा धृतं देवि शताक्षीत्वं ततो भव ||
क्षुधया पीडिता मातः स्तोतुं शक्तिर्न चास्ति नः |
कृपां कुरु महेशानि वेदानप्याहराम्बिके ||
व्यास उवाच
इति तेषां वचः श्रुत्वा शाकान् स्वकरसंस्थितान् |
स्वादूनि फलमूलानि भक्षणार्थं ददौ शिवा ||
नाना विधानि चान्नानि पशुभोज्यानि यानि च |
काम्यानन्तरसैर्युक्तान्यानवीनोद्भवं ददौ ||
शाकम्भरीति नामाऽपि तद्दिनात्समभून्नृप |
ततः कोलाहले जाते दूतवाक्येन बोधितः ||
ससैन्यः सायुधो योद्धुं दुर्गमाख्योऽसुरो ययौ |
सहस्राक्षौहिणीयुक्तः शरान् मुञ्चंस्त्वरान्वितः ||
रुरोध देवसैन्यं तद्यद्देव्यग्रे स्थितं पुरा |
तथा विप्रगणं चैव रोधयामास सर्वतः ||
ततः किलकिलाशब्दः समभूद्देवमण्डले |
त्राहि त्राहीति वाक्यानि प्रोचुः सर्वे द्विजामराः ||
ततस्तेजोमयं चक्रं देवानां परितं शिवा |
चकार रक्षणार्थाय स्वयं तस्माद्बहिः स्थिता ||
ततः समभवद्युद्धं देव्या दैत्यस्य चोभयोः |
शरवर्षसमाच्छन्नसूर्यमण्डलमद्भुतम् ||
ततो देवीशरीरात्तु निर्गतास्तीव्रशक्तयः |
कालिका तारिणी बाला त्रिपुरा भैरवी रमा ||
बगला चैव मातङ्गी तथा त्रिपुरसुन्दरी |
कामाक्षी तुलजादेवी जम्भिनी मोहिनी तथा |
छिन्नमस्ता गुह्यकाली दशसाहस्रबाहुका ||
- devIbhAgavata mahApurANa
| « shAkta siddhAnta – 10 | Trika - The Missing Pieces » |

