Mahāgaṇapati

 

Mahaganapati

 

का वल्लभा को वल्लभेश इति?
सर्वलोकनायिका ब्रह्मशक्तिर्वैनायकी माया सिद्धलक्ष्मीर्वल्लभा | तत्पतिः परमात्मा वल्लभेशः |
कथं गणपतिरिति?
ब्रह्मविष्णुरुद्रादीनां देवानामन्नादि ब्रह्मणां महदादि तत्त्वानां गणानां पतिर्गणपतिः |
केन गजाननेति?
नराकारा माया | गजाकारः पुरुषः | प्रकृतिपुरुषाभेदाकृतिधरो गजाननः |
कथं दशभुज इति?
पञ्चमं ब्रह्म व्याकृताव्याकृतमिदं प्रविश्य अन्तर्याम्यभवत् | व्योम्नः पुष्टिपतिं वायोर्मनसश्च रतिपतिमग्नेः गिरिजापतिमद्भ्यो रमापतिं अन्नाद्भूमिपतिं सशक्तिकानसृजत् | सशक्तिकानां पञ्चानां अभेदाकृतिमयत्वात् दशबाहुक इति |
वराहचिह्नं गदा |
भूमेर्व्रीह्यग्रम् |
विष्णोश्चक्रम् |
श्रियः पद्मम् |
रुद्रस्य रुजा |
गौर्याः पाशम् |
रतेरुत्पलम् |
मारस्य इक्षुकार्मुकम् |
पुष्टेर्बीजापूरम् |
पुष्टिपतेर्विषाणम् |
एवं दशयुधधरो दशानां अभेदाकृतिमयः कण्ठाधो वल्लभेशो दशबाहुकः |
गजाकारस्तुरीयो मूर्धा | तच्चिह्नं शुण्डा | नानाविध रत्नपूरित रत्नघटं तदायुधम् |
एकादशायुधराजित एकादशकरो वल्लभेशः |
केन रक्तवर्ण इति?
वर्णेष्वाद्यं लोहितम् | अयं देवेष्वाद्यत्वाद्रक्तवर्णोऽभवत् |
केन त्रिनेत्र इति?
प्रपञ्चत्रय साक्षित्वात् त्रिनेत्रः |
केन चन्द्रचूडः?
त्रिविधात्मकं जगन्मृतम् | तुरीयममृतात्मकम् | अमृतं चन्द्ररूपकम् | तुरीयब्रह्ममस्तकत्वात् चन्द्रचूडः |
कथं चिन्तामणिद्वीपपतिरिति?
अविद्यात्मकं जगत् | विद्यात्मकं तुरीयम् | चित्तप्रकाशकत्वाच्चिन्तामणिः | तुरीयस्थितत्वाच्चिन्तामणिद्वीपपतिः|

श्रीविद्या गणनाथस्य योगः कामप्रपूरकः |
गायत्री गणनाथस्य संयोगो ब्रह्मदायकः ||
भुक्तिमुक्तिप्रदो ब्रह्मतेजःपुञ्जप्रदो मतः |
बाला गणेशसंयोगो विद्याश्रीकामदायकः ||
नीलकण्थस्य त्र्यक्षर्या योगेनैव विषान्तकः |
अघोर गणनाथस्य संयोगः शत्रुनाशकः ||
कृत्याभिचारशमनः सर्वाभीष्टप्रदायकः |

|| नीलताराधिपतये नमः ||

Facebook
Twitter
LinkedIn