Mahānityāmaṇḍalam

 

Sixteen Nithya Devi

 

श्रीमात्रे नमः

भूताः प्रेताः पिशाचाश्च राक्षसा ब्रह्मराक्षसाः |
भूतप्रेतग्रहाश्चैव तथा बालग्रहाः शिवे ||
कश्मलाश्च निवाताश्च डाकिनी शाकिनी तथा |
याकिनी राकिणी चैव हाकिनी लाकिनी तथा ||
काकिनी प्रमुखाश्चैव झोंटिगा भैरवेरिताः |
रुद्रग्रहास्तथा विष्णुग्रहा ब्रह्मग्रहास्तथा ||
कृत्याग्रहास्तथा देवि कूष्माण्डा यक्षिणीग्रहाः |
कामग्रहा मदोन्मादास्तथोन्मत्तग्रहाः शिवे ||
जलग्रहास्तथा सर्वे ग्रहाश्च कटपूतनाः |
स्कन्दग्रहा महेशानि तथा वैनायिकाः शिवे ||
धनग्रहास्तथा देवि तथा देवग्रहा अपि |
यक्षाश्च दानवा दैत्या वेतालाः किन्नरीगणाः ||
भूतिन्यप्सरसश्चैव तथैव नागिनीग्रहाः |
एवमादिग्रहादीनां नाशनं येन जायते ||
शूलिनी शरभश्चैव शिवपञ्चाक्षरी तथा |
नवदुर्गा बहिर्बन्धस्तथान्तर्बन्ध एव च ||
सुब्रह्मण्यो महेशानि तथैव खड्गरावणः |
हनुमान् भैरवश्चैव वटुकः क्रोधभैरवः ||
प्रत्यङ्गिरा वीरभद्रः त्रैलोक्यविजया तथा |
नारसिंहो महेशानि महाशरभशूलिनी ||
चण्डकाली भद्रकाली प्रोक्ता रुद्रमहाङ्कुशा |
महापाशुपतास्त्रं चाघोरास्त्रं च तथैव च ||
एते मन्त्रा मया प्रोक्ता शाबरद्वययोगतः |
ब्रह्मराक्षसवेतालकृत्यादौ खड्गरावणे ||
ब्रह्माविष्णुस्तथारुद्रः प्रेतापस्मारनाशने |
यातुधानविनाशे तु तथा किंपुरुषादिके ||
शरभो हनुमान देवि विरूपाक्षोऽङ्गिरा अपि |
भूतप्रेतपिशाचादि क्रूरग्रहनिवारणे ||
शूलिनी वनदुर्गा च तथा पञ्चाङ्गुलिः प्रिये |
कूष्माण्डडाकिनीनाशे प्रेतापस्मारनाशने ||
वीरभद्रः शिवः प्रोक्तः सर्वनाशे तु तद्गणाः |
सर्वेषां नाशने शान्तौ प्रीतावपि महेश्वरि ||
महानित्यामण्डलं च बन्धद्वयसमन्वितम् |
महानित्यामण्डलेन किं तद्यन्न करे स्थितम् |
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ||

 

Facebook
Twitter
LinkedIn