Prastāra-bhēda of śrīchakra

 

Innumerable prastāras are discussed for various formulations of śrīcakra.

चत्वारि शिवचक्राणि शक्तिचक्राणि पंच च |
सामरस्याद्भवेच्चक्रं श्रीचक्रं सर्वरूपकम् ||

बिन्दोर्मन्वस्रपर्यन्तं शक्तिचक्रं प्रकीर्तितम् |
तदुत्तरं महेशानि द्वारान्तं शिवचक्रकम् ||

शुद्धचक्रमिदं प्रोक्तमिदमेव त्रिधा भवेत् |
भूः कैलासस्तथा मेरुप्रस्तारत्वेन पार्वति ||

भूप्रस्तारो द्विधा देवि पातालोर्ध्वक्रमेण तु |
कैलासाख्यस्तु प्रस्तारो द्विविधः परिकीर्तितः ||

अर्धकैलाससंज्ञस्तु पूर्णकैलासकस्तथा |
तथैव मेरुप्रस्तारः कीर्तितस्तु मया तव ||

सृष्टिस्थित्युपसंहारक्रमादष्टदशैव तु |
सृष्टिस्थित्युपसंहारबीजलेखक्रमेण तु ||

ऋत्वग्निसंख्याः प्रस्तारास्त्वङ्कानां वामतो गतिः |
नित्यायाश्चैव तादात्म्यं प्रस्तारे मेरुसंज्ञके ||

मातृकायाश्च तादात्म्यं कैलासाख्यं प्रकीर्तितम् |
वाग्देवतायास्तादात्म्यं भूप्रस्तरे प्रकीर्तितम् ||

इमं यन्त्रं तु षोडश्यां कीर्तितं तु मया तव |
शुद्धमष्टादशाख्यं हि मातृकालेखनक्रमम् ||

सृष्टिस्थित्युपसंहारे बाणवेदविपर्ययः |
अथवा तु दळाकारं सिद्धं यन्त्रं तु कारयेत् ||

प्रस्तारैः पूर्वसंप्रोक्तैः सृष्टिस्थितिलयादिकैः |
एवं यन्त्रं तु निःशप्तं कीर्तितं तु मया तव ||

नवसंख्याविधैर्भेदैर्ललितायां महेश्वरि |
प्रस्तारा बहवो देवि जायन्ते तानहं ब्रुवे ||

कादिहादिमतेनैव द्विधात्वं परिकीर्तितम् |
षड्भेदाः कादिषट्के तु कामराजादिकेऽपि षट् ||

एतद्विभेदनं देवि कथ्यते शृणु सत्वरम् |
चतुर्दशारं देवेशि कामराजे तु भिद्यते ||

लोपादिषट्के शुद्धेऽन्ये द्वितीयं परिभिद्यते |
कादिषट्के तु हाद्ये च दशारे भेधभाजनम् ||

लोपादिषट्के नेत्राख्ये दशारे भेदभाजनम् |
एवं मिलित्वा देवेशि प्रस्तारा द्वादशेरिताः ||

प्रत्येकं तु महेशानि पूर्वप्रस्तारभेदतः |
सृष्टिस्थित्युपसंहारलेखनक्रमतः शिवे ||

एकैकपत्रे देवेशि शतमष्टोत्तरं शिवे |
त्रयोदशप्रभेदैस्तु प्रस्तारः परिकीर्तितः ||

चन्द्रचन्द्रषडङ्कं च मुनिऋत्वङ्कसंख्यकम् |
यन्त्राणि चोद्धृतान्यत्र प्रस्तारक्रमयोगतः ||

One can refer to works such as Kramakalpalatā, Saubhāgyasandōha, Tantrarāja Tantra (with Manōramā commentary,), etc. for further insight.

वंशीविभूषितकरात् नवनीरदाभात्
पीताम्बरादरुणबिम्बफलाधरोष्ठात् |
पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्
कृष्णात्परं किमपि तत्त्वमहं न जाने ||

 

Facebook
Twitter
LinkedIn