Saptasthānacūrṇikā

 

अस्ति खलु सप्तसागर सप्तकुलाचल सप्तद्वीपपरिमण्डिते भूमण्डले पंचाशत्कोटियोजनविस्तीर्णे जम्बूद्वीपो रत्नद्वीपः | तत्रात्युत्तमाः षट्पंचाशद्देशाः | तेष्वपि अनेककोटि सुरालय भूसुरालय मण्डितश्चोलदेशः | तस्मिन्नपि अपरिमित हरिहरालय विबुधकोटिसंकीर्ण सह्यजातीरस्थलानि सर्वोत्तमानि | तेष्वपि एतावत्त्वरहितवैभवं साक्षाद्दाक्षायणीपतिनिवासभूतं सहस्रवदनेनापि सहस्रकोटियुगैरपि वर्णितुं अशक्यं अवाङ्मनसगोचरं अत्यद्भुतवैभवमनाद्यं किञ्चिदस्ति स्थलम् | तस्मिन् बृन्दारकपति नन्दनवनशोभि मन्दारमुख वृन्दारकतरुसन्दोह सन्देहकरमाकन्द कुन्दतिन्दुकचन्दन चम्पकचाम्पेय पनसपाटल प्रियालहिन्तालतालतमाल कृतमालनक्तमालतक्कोल रसालवकुलसरल तिलकामलकजम्बुजम्बीर खर्जूरनारिकेलदाडिम द्राक्षानारङ्गबदरी बिल्वकपित्थकदली पटलजटिल घटविटपुटतट कुटजलिकुचपलाशचिलपुन्नाग नागकिंशुक बन्धूकच्छायकजीवक अशोकहिन्दूककेतक रसपूर्णगन्धपूर्ण मुचुकुन्दरसगन्ध घनबृन्दपुलिन्द वकुलमञ्जुलकरलकोमल स्फूर्जविस्फूर्ज विदारकोविदारकूर्मार मन्दारतुम्बीरार्जुन तर्जनविकर्जन कदम्बकादम्बहेरम्ब विलम्बतुम्बकुरुम्ब अश्वकर्ण गोवर्णगोकर्ण गोचूर्ण घनसविघनवरुणतरुण तरङ्गविचुलिङ्गविबुधवन यक्षफलयक्षधवसूधव माधवमरूधवपुरीधव सिन्धूपनिक्षीप दीपनीपप्रदीप भूपगोपोपकूप वित्पलतित्पलमरुत्पल वीरवीरवसुवीर फलपूरबीजपूरकन्दसार तिन्त्रणघंत्रणयन्त्रण बोधसंबोधन्यग्रोध हिम्बुमल्लीवल्लीवीरवल्ली वसन्तीवासन्ती जीवन्तीजवन्ती जातीहेमजातीविदूती विशालीवेशालीतुलसी कुमुदोत्पलनीलोत्पल मालतीमाधवीमधुकर पङ्कजपारिजातप्रमुख निखिलभूरुह लतामण्डल निरन्तर दलकुसुमफलभरित विटपावृतोद्यानशोभिते कृतपातक पामरजन पावनकरनिपुण कावेरीशीतलजलस्पृष्ट मन्दमलयमारुत सम्पर्कविकसित केतकीचम्पकमल्लिकादि कुसुमघुमुघुमित वासनानन्तभरित विबुधनिकरे अखिलप्रपञ्चस्थल सञ्चारापूरणमनोरथ चन्द्रशेखर चरणारविन्द मकरन्द निश्चञ्चल चञ्चरीकायमान विरिञ्चतनयादि मुनिसञ्चय तपःसञ्चयसिद्धिप्रदे मुक्तिप्रदे नित्योत्सव पक्षोत्सव मासोत्सव सम्वत्सरोत्सव रथोत्सव डोलोत्सव वसन्तोत्सव पुष्योत्सव पुष्पोत्सव प्रजोत्सव विजयोत्सव महोत्सवमहावैभवे चैत्रोत्सव पञ्चमदिन कृतात्मपूजानन्दभरित महेश्वर वृषभवाहन महारथोत्सव सन्दर्शनागत सप्तस्थल देवतागण सुरगण मुनिगण निबिडीभूत नृत्तगीतवाद्यसङ्गीत संघोषसन्तोषित चतुर्वर्ण जनकोटिसंसेविते प्रपञ्चसंरक्षणदीक्षितेशकृत पञ्चाक्षरतारकमन्त्रोपदेश पञ्चशरारिशरीरदायके पञ्चनदस्थले यो देवः सकलकोटिदेवेषु महादेव इति सकलकोटिविबुधैः सततं संपूज्यते स भगवान् धर्मसंवर्धनीशः जगदीशः चन्द्रामृतसूर्यपुषकरणीजल जटामण्डलस्थगङ्गातोय गिरिजापयोजधरक्षीरवृषभफेन पञ्चनदीपतिः पशुपतिः विशिष्टमहामुनिवरिष्ठ वसिष्ठभगिनी विवाहमहोत्सवसंतोषित नन्दिकेश्वरसमेतः गिरिजासमेतः सप्तस्थलप्रदक्षिणागमन सदयहृदयः सदयः सुरथमहीपति मनोरथपूरणसन्दर्शित दक्षिणोत्तरकैलासभर्मनिर्मित प्राकारगोपुरविमान गर्भगृहार्धमण्टप महामण्टपस्नपनमण्टप पूजामण्टपपुष्यमण्टप नृत्तमण्टपनाट्यमण्टप सोपानप्रदक्षिणमण्टप अश्वमेधप्रदक्षिणमण्टप जपतपःसिद्धिकरजप्येश्वरमण्टप शान्तमण्टपदान्तमण्टप वसन्तमण्टपोद्यानमण्टप श्रीविलासमण्टपश्रीचूर्णमण्टप कृष्णगन्धमण्टपारार्तिकमण्टप कौतुकभूकृतमण्टप वेदशास्त्रसर्वपुराणव्यवहारमण्टप हरिब्रह्मेन्द्रादिसमूहमण्टप अष्टादशवाद्यघोषमण्टप रत्नमण्टप पुष्पसुगन्धपरिमलविलासमण्टप धर्मसंवर्धनीसकलभोगभोग्यमण्टप विचित्रचित्राङ्कित मण्टपोपमण्टपमहामण्टप चतुह्स्तम्भमण्टप षोडशस्तम्भमण्टप शतस्तम्भमण्टप सहस्रस्तम्भमण्टप अनेकस्तम्भमण्टपादि मण्टपविराजितमहालयविनिर्गतः अतिधवलितवुमुवुमायमान नवकोटिमल्लिकाहारमुक्ताहार मुकुरवरनिकर सिंहमुखशरभमुख कनकदण्डमण्डित नवरत्नमणिखचित तप्तकाञ्चनशिबिकासुस्थितः मुनिहृदिस्थितः अपहसितचन्द्रमण्डलश्वेतच्छत्रोभयचामर वालव्यजनपताकादि सकलबिरुदादिविराजमानः सकलविबुधसंस्तूयमानः भेरीमृदङ्गमद्दलतालकाहल दुन्दुभितूर्यतुम्बुरुवीणावेणुनूपुर मड्डुकदिण्डिमडमरुक जर्झरधवलशङ्खपणव पटहाष्टादशवाद्यघोषसमेत शब्दायमानसकलदिगन्तरः नानाविधवर्णसुवर्णपुष्पस्तबक कोटिदेदीप्यमान मलयचन्दनागरुगुग्गुलुगोघृत घनसारधूपवर्ति दिव्यपरिमलवासनादि घुमुघुमायमान सकललोकः संरक्षितसकललोकः हाटककटककेयूरनूपुरहार विराजितकलेबरः कटितटसुघटितहेमाम्बरः चण्डकिरणमण्डलरुचि षण्डकखण्डकमणिखचित मुकुटमण्डितशिखण्डः रत्नकुण्डलशोभितगण्डः ताराधिपसेवारत मुक्ताहारायित तारालिविराजितः मारायुतकोटिसुकुमाराकृतिः मारारातिः शरणागतशतकोटिजन शतकोटिपापगिरिशतकोटिः धूर्जटिः सप्तस्थलप्रदक्षिणविचक्षण पदक्रमश्रुतिस्मृतिसुलक्षण लक्षकोटिब्राह्मणोत्तमकृत वेदपारायणश्रवणपरमानन्दभरितः गानविशारद नारदसन्निभपरमभागवतोत्तमकृत दिव्यनामसङ्कीर्तन श्रवणहर्षपुलकाङ्कितदेहः धर्मसंवर्धनीविलसदर्धदेहः भक्तापदन्धतमःसप्ताश्वबृहदम्बासहित आपत्सहायेश्वराभ्यागमन संमानसम्पूजित श्रीप्रयाणस्थलनिकटघटित पटहभेरीवाद्य डमडमध्वनिश्रवण ससंभ्रमसन्दर्शनाय समुत्थितदिवकरः करुणाकरः अनेककोटिभूसुरवरान्नदाननिपुण असदृशनायकीसहित ओदनेश्वरप्रत्युत्थानबहुमानसंपूजितः चतुर्वेदोद्धारणनिपुण मङ्गलनायकीसहित वेदपुरीश्वरसपर्यासम्मोदितमनसः मुनिजननिहितमानसः अखिलभूसुरवाद्यानेक भक्तजनसूर्यातपपरिश्रमापनोदनकामो भक्तपराधीनः चराचरप्रपञ्चनिर्माणचतुर चतुराननशिरःखण्डनपण्डित मङ्गलनायकीसहित खण्डीश्वरालयस्थितः एलोशीरलवङ्गसंवासित बहुशीतलस्वच्छजल शुण्ठीरामठसैन्धवजम्बीर फलसारबहुरुचिर तक्रशर्करामिश्रित गोघृतसंसिक्तपृथुकपानक पादुकाव्यजनच्छत्र मुद्गखण्डचणकखण्ड शर्करापनसचूतकपित्थ कदलीफलपटलीप्रदान सुगन्धचन्दनालेप मल्लिकाहारपुष्पपरिशोभितकण्ठ परमसन्तुष्ट ब्राह्मणकोटिसमीरित वेदघोषायमाणाखण्डीश्वरालयः करुणालयः सुरवरमुनिवरभूसुर वरदायक त्रिपुरसंहारविशरद सौन्दर्यनायकीसहित पुष्पवनेश्वर पुष्यमण्टपस्थः उभयकावेरीमध्यप्रदेशानन्दकर मन्दागमनसन्दर्शनागत ब्रह्मऋषिदेवऋशि यक्षगन्धर्वकिन्नरकिंपुरुष सिद्धसाध्योरगभक्तजन सुरकोटिभूसुरवरकोटिभासुरमुनिकोटि घृतस्थानेशनिकट कावेरीमध्यप्रदेशः गौरीशः मरकतमणिखचित कनकशिबिकामकुटकुण्डल कटकभासापहृत सकलतेजोजात परिभवासहमान कोपारुणवर्ण पश्चिमसागरपतत्पतङ्गः कोमलाङ्गः अर्धास्तमनसमयकृत सन्ध्यावन्दनोपस्थान जपहोमवेदपारायण बहुनिपुणभूसुरपरिश्रमापनोदनाय फालाक्षानलदग्धमदन बालाम्बिकासहित घृतस्थानेश्वरसुखस्थलालयस्थः समकालसमुद्यत्कोटिसूर्यसमान सहस्रकोटिदीपपङ्क्ति दीपवृक्षरत्नदीपरथदीप नानाविधवह्नियन्त्रकोटि देदीप्यमान महामार्गप्रदेश मन्दगमनमन्दहासभरितः सुन्दरसोमास्कन्दमूर्तिः प्रणतार्तिहरविख्यातकीर्तिः करुणामूर्तिः श्रीसाम्बमूर्तिः पञ्चमहापातकेभपञ्चानन पञ्चनदस्थलालयान्तःप्रविष्टः कर्पूरनीराजनविराजमान कर्पूरगौरशरीरसन्दर्शनायत सकलकोटिभक्तजनाभीष्टः सकलदेववरिष्ठः सकलजगदीशः धर्मसंवर्धनीशः मम हृदन्तरे निरन्तरं निवसन् पातु मां पातु मां पञ्चनदीशः ||

1. Pañcanada kṣētra (Tiruvayyāru) – Dharmasaṁvardhanī – Praṇatārtiharēśvara
2. śrīprayāṇa kṣētra (Tiruppayaṇam) – Br̥hadambā – āpatsahāyēśvara
3. dana kṣētra (Tiruśōrrutturai) Asadr̥śanāyakī – ōdanēśvara
4. Vēdakuṭī kṣētra (Tiruvēdakuḍī) – Maṅgalanāyakī – Vēdapurīśvara
5. Brahmaśiraḥ khaṇḍana kṣētra (Tirukkaṇḍiyūr) – Maṅgalanāyakī – Khaṇḍīśvara
6. Puṣpavana kṣētra (Tiruppūnturutti) – Saundaryanāyakī – Puṣpavanēśvara
7. Ghr̥tasthāna kṣētra (Tirunaittānam) – Bālāmbikā – Ghr̥tasthānēśvara

 

|| इति श्रीसप्तस्थानचूर्णिका समाप्ता ||

Facebook
Twitter
LinkedIn