Shanmukha Aṣṭōttara śatanāma Stotram

 

ॐ ह्रीं सौं व्रीं

सुब्रह्मण्यः परंब्रह्म शरणागतवत्सलः |
भक्तप्रियः परञ्ज्योतिः कार्तिकेयो महामतिः ||
कृपानिधिर्महासेनो भीमो भीमपराक्रमः |
पार्वतीनन्दनः श्रीमानीशपुत्रो महाद्युतिः ||
एकरूपः स्वयंज्योतिः अप्रमेयो जितेन्द्रियः |
सेनापतिर्महाविष्णुराद्यन्तरहितः शिवः ||
अग्निगर्भो महादेवः तारकासुरमर्दनः |
अनादिर्भगवान्देवः शरजन्मा षडाननः ||
गुहाशयो महातेजा लोकज्ञो लोकरक्षकः |
सुन्दरस्सूत्रकारश्च विशाखः परभञ्जनः ||
ईशः खड्गधरः कर्ता विश्वरूपो धनुर्धरः |
ज्ञानगम्यो दृढप्रज्ञः कुमारः कमलासनः ||
अकल्मषः शक्तिधरः सुकीर्तिर्दीनरक्षकः |
षाण्मातुरः सर्वगोप्ता सर्वभूतदयानिधिः ||
विश्वप्रियश्च विश्वेशो विश्वभुग्विश्वमङ्गलः |
सर्वव्यापी सर्वभोक्ता सर्वरक्षाकरः प्रभुः ||
कारणत्रयकर्ता च निर्गुणः क्रौञ्चदारणः |
सर्वभूतो भक्तिगम्यो भक्तेशो भक्तवत्सलः ||
कल्पवृक्षो गह्वरश्च सर्वभूताशयस्थितः |
देवगोप्ता च दुःखघ्नो वरदश्च वरप्रियः ||
अनादिब्रह्मचारी च सहस्राक्षः सहस्रपात् |
ज्ञानस्वरूपो ज्ञानी च ज्ञानदाता सदाशिवः ||
वेदान्तवेद्यो वेदात्मा वेदसारो विचक्षणः |
योगी योगप्रियोऽनन्तो महारूपो बहूदरः ||
निर्विकल्पश्च निर्ल्लेपो निर्विकारो निरञ्जनः |
नित्यतृप्तो निराहारो निराभासो निराश्रयः ||
अखण्डनिर्मलोऽनन्तश्चिदानन्दात्मको गुहः |
चिन्मयश्च गिरीशश्च दण्डायुधधरस्तथा ||
इति श्रीषण्मुखस्यैतन्नाम्नामष्टोत्तरं शतम् |
यः पठेत् शृणुयाद्वापि सर्वान्कामानवाप्नुयात् ||

 

|| इति शिवम् ||

Facebook
Twitter
LinkedIn