Vātulāgamōkta Pañcarudra Vidhi

 

Sadashiva

 

अस्य श्रीसद्योजातरुद्र महामन्त्रस्य जातवेद ऋषिः – निचृद्गायत्री छंदः – सद्योजातरुद्रो देवता -ॐ बीजं -नमः शक्तिः -शिवायेति कीलकं – ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ||

[षडक्षरेण न्यासः]

ध्यानं
पञ्चवक्त्रं चाष्टबाहुं वृषारूढं त्रिलोचनम् |
नागराट्कुण्डलं सद्योजातरुद्रं नमाम्यहम् ||

अस्य श्रीवामदेवरुद्र महामन्त्रस्य वामदेव ऋषिः -निचृद्गायत्री छंदः -वामदेवरुद्रो देवता -ॐ बीजं -नमः शक्तिः -शिवायेति कीलकं -ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ||

[षडक्षरेण न्यासः]

ध्यानं
भस्माभ्यक्तमनङ्गारिं महेक्षवरवाहनम् |
चन्द्रसूर्याग्निनयनं वामदेवं नमाम्यहम् ||

अस्य श्री अघोररुद्र महामन्त्रस्य अघोर ऋषिः -त्रिष्टुप् छंदः -अघोररुद्रो देवता -ॐ बीजं -नमः शक्तिः -शिवायेति कीलकं -ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ||

[वर्णत्रयेण न्यासः]

ध्यानं
फणिभूषणमत्युग्रं शूलटङ्कधरं हरम् |
कपालमालिकोरस्कमघोरं रुद्रमाश्रये ||

अस्य श्रीतत्पुरुषरुद्र महामन्त्रस्य तत्पुरुष ऋषिः -अनुष्टुप् छंदः -तत्पुरुषरुद्रो देवता -ॐ बीजं -नमः शक्तिः -शिवायेति कीलकं -ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ||

[षडक्षरेण न्यासः]

ध्यानं
गिरिजानङ्गवामाङ्गमरुणाब्जनिवासिनम् |
सर्पाधिराजकटकं रुद्रं तत्पुरुषं भजे ||

अस्य श्री ईशानरुद्र महामन्त्रस्य ईशान ऋषिः – विराट्‌ छंदः -ईशानरुद्रो देवता -ॐ बीजं -नमः शक्तिः -शिवायेति कीलकं -ममाभीष्टसिद्ध्यर्थे जपे विनियोगः ||

[षडक्षरेण न्यासः]

ध्यानं
शुद्धस्फटिकसङ्काशमक्षमालाधरं हरम् |
ईशानरुद्रं तं वन्दे चन्द्रमाखण्डभूषणम् ||

 

Facebook
Twitter
LinkedIn