Tantriki Diksha

 

दीक्षाशब्दव्युत्पत्तिः
दिव्यं ज्ञानं यतो दद्यात् कुर्याच्च पापसंक्षयम् |
तस्माद्दीक्षेति सा प्रोक्ता देशिकैस्तन्त्रवेदिभिः ||

तस्याः प्रकारान्तरम्
अथवा गुरुणा सम्यग्दीक्षणाद्देवमन्त्रयोः |
दीक्षेति कथिता सद्भिः सर्वपापप्रणाशिनी ||

प्रकारान्तरञ्च
ददाति यस्मादिह दिव्यभावं
मायामये कर्म च संक्षिणोति |
फलं चतुर्वर्गभवञ्च यस्मात्
तस्मात्तु दीक्षेत्यभिधानमस्याः ||

दीक्षाफलम्
कोटिजन्मकृतं पापं ज्ञानाज्ञानकृतञ्च यत् |
दीक्षाग्रहणमात्रेण पलायेत न संशयः ||
ब्रह्महत्या सुरापान स्वर्णस्तेयादिपातकम् |
उपपातकलक्षाणि हन्ति दीक्षात्रयान्नरः ||

वर्णभेदेन दीक्षायाः फलभेदाः
दीक्षितो ब्राह्मणो याति ब्रह्मलोकमनामयम् |
इन्द्रलोकं क्षत्रियोऽपि प्राजापत्यं तथा विशः ||
शूद्रो गन्धर्वनगरं याति दीक्षाप्रभावतः |
चतुर्णामपि वर्णानामतो दीक्षा प्रशस्यते ||

दीक्षायास्त्रैविध्यम्
शाम्भवी चैव शाक्तेयी मान्त्री चैव शिवागमे |
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ||

तत्र मान्त्री दीक्षा
मन्त्रमार्गानुसारेण साक्षात् कृत्वेष्टदेवताम् |
गुरुः सद्बोधयेच्छिष्यं मन्त्रदीक्षेति सोऽच्यते ||

तस्या एव क्रियावतीत्याख्यं प्रकारान्तरम्
अथवा मन्त्रपूजादि ध्यानयोगादिभिः कृता |
गुरुणा योगमार्गेण तथा शास्त्रानुसारतः |
मान्त्री क्रियावती सा तु कुण्डमण्डलपूर्विका ||

मान्त्र्या एव प्रकारान्तरम्
मन्त्रोपदेशमात्रं तु मन्त्रदीक्षेति चापरे |

शाक्तेयी दीक्षा
सिद्धे स्वशक्तिमालोक्य तथा केवलया शिशोः |
निरुपायं कृता दीक्षा शाक्तेयी परिकीर्तिता ||

ज्ञानवती दीक्षैव शाक्तेयी दीक्षा
अथ ज्ञानवती दीक्षा शक्तिदीक्षेति चापरे |

शाम्भवी दीक्षा
अभिसन्धिं विनाऽऽचार्यशिष्ययोरुभयोरपि |
देशिकानुग्रहेणैव शिवताव्यक्तिरूपिणी |
सेयन्तु शाम्भवी प्रोक्ता शिवावेशनकारिणी ||

तस्याः प्रकारान्तरम्
गुरोरालोकमात्रेण स्पर्शात् सम्भाषणादपि |
सद्यः संज्ञा भवेज्जन्तोः शाम्भवी चेति चागमे ||

शाम्भवी शाक्तेयी मान्त्री चेति त्रिविधा दीक्षा | त्रेधेत्यनेन अन्येषां आणवादि दीक्षाभेदानां अत्रैवान्तर्भावः सूचितः | नन्विह शाम्भवी शाक्तेयी मान्त्रीति क्रमेण त्रिविधां दीक्षामुद्धिश्य मन्त्रमार्गानुसारेणेत्यादि तत्तद्विशेष लक्षणनिरूपणावसरे मान्त्री शाक्तेयी शाम्भवीति व्युत्क्रमेण निर्देशः कथम्? कथं वा –

त्रिविधा सा भवेद्दीक्षा मान्त्री शाक्ती च शाम्भवी |

इति गन्धर्वतन्त्र षड्विंशतिपटलवचने दीक्षाणां विशिष्टक्रमनिर्देशे सत्यपि अत्र व्युत्क्रमेणोद्देशः? उच्यते राघवभट्टकृत आम्नायमहारत्ने –

त्रिविधा सा भवेद्दीक्षा प्रथमा आणवी परा |
शाक्तेयी शाम्भवी चान्या सद्यो मुक्तिविधायिनी ||

इत्यनेन आणवदीक्षायाः प्राथम्यमुपदर्श्य

मन्त्रार्चनासनस्थानध्यानयोगादिभिः कृता |
दीक्षा सा त्वाणवी प्रोक्ता यथा शास्त्रोक्तकारिणी ||

इति यदाणवदीक्षालक्षणं कृतं तेन सह

अथवा मन्त्रपूजादिध्यानयोगादिभिः कृता |

इत्यादि पूर्णानन्दोक्त मान्त्रदीक्षालक्षणस्याभेदात् क्रियावती मान्त्री दीक्षैवाणवी दीक्षा,तस्याश्च प्राथम्यं प्रागुक्त षडाम्नायमहारत्नवचनेन उपपादितमेव | ततश्च प्रथमा मान्त्री, द्वितीया शाक्ती, तृतीया शाम्भवीति स्थितम् | एवञ्च प्रागुक्त तत्तदीक्षालक्षणैः प्रथमं विधिबोधितमान्त्रदीक्षया लब्धप्रवेशे शिष्ये मन्त्रसिद्धस्य गुरोः स्वशक्तेरुन्मीलनं द्वितीया शाक्ती दीक्षा | ततश्चाविर्भावितशक्तेः शिष्यस्य शिवतासम्पादनं तृतीया शाम्भवी दीक्षेत्यवगम्यते इति षडाम्नायमहारत्नानुसारी सिद्धान्तः |

राघवभट्टधृत वायवीयसंहितायां तु –
शाम्भवी चैव शाक्ती च मान्त्री चैव शिवागमे |
दीक्षोपदिश्यते त्रेधा शिवेन परमात्मना ||

अस्मिन् कल्पे प्रागुक्ततत्तल्लक्षणैः प्रथमं विषयविमुग्धात्मनः शिष्यस्य सद्गुरुदर्शनमात्रेण संज्ञालाभस्ततो विषयवैमुख्यं इति शाम्भवी दीक्षा | ततोऽनया दीक्षया सम्भावितशम्भुभावस्य द्वितीया शाक्ती दीक्षा | सा च ज्ञानवती तया दीक्षया ज्ञानोत्पादे तृतीया मान्त्री दीक्षा | सा च प्रागुक्तदीक्षाद्वयेन सम्भावितशम्भुभावस्य समुत्पन्नज्ञानस्य च शिष्यस्य कुण्डमण्डलाद्युपायपूर्विका कर्मभूयिष्ठा च मन्त्रप्रदानरूपा क्रियावती | एतदभिप्रायेणैव –

महादीक्षा तथा दीक्षा उपदेशस्ततः परम् |
युगे युगे च कर्तव्यं उपदेशः कलौ युगे ||

इति तन्त्रसारधृत विश्वसारवचनेनापि प्रतियुगं दीक्षात्रयस्य कर्तव्यतामुपपाद्य उपदेशरूप मान्त्रदीक्षायाः चरमत्वमभिहितम् | अत्र ततः परमित्यभिधानात् दीक्षात्रयस्यैव कर्तव्यत्वमवगम्यते |

षट्चक्रादि ज्ञानापेक्षिणां अन्तर्यागदिकर्मणां उपदेशस्य प्रबलाज्ञानमलीमसे शिष्यमनसि सर्वथा प्रवेशासम्भवात् –

देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया |
जपेदेकमनाः प्रातःकालान्मध्यन्दिनावधि ||

इति गन्धर्वतन्त्र अष्टाविंशतिपटलोक्त देवतागुरुमन्त्रैक्य भावनानुपपत्तेश्च ज्ञानविशोधित एव शिष्यहृदये कर्मोपदेशः समीचीन इति | एतन्मयद्वयप्रदर्शनार्थमेव श्रीमत्पूर्णानन्द परमहंसैः शाम्भवी शाक्ती मान्त्रीति दीक्षाक्रममुद्धिश्य व्युत्क्रमेण लक्षणानि कृतानीत्यवधेयम् ||

 

Facebook
Twitter
LinkedIn