नमो नमः शंकरपादुकाभ्याम्

Acharya-Paduka


|| नमो नमः शङ्करपादुकाभ्याम् ||

गुशब्दस्त्वन्धकारः स्यात् रूकारस्तन्निरोधकः |
अन्धकारनिरोधत्वात् गुरुरित्यभिधीयते ||
गुकारो ज्ञानसंपत्तिः रेफस्तस्य प्रकाशकः |
उकारश्शिवतादात्म्यं गुरुरित्यभिधीयते ||

आचिनोति हि शास्त्राणि ह्याचारे स्थापयत्यपि |
स्वयं आचरते यस्मात् तस्मादाचार्य उच्यते ||

आत्मभावप्रदानात्तु रागद्वेषादिवर्जनात् |
ध्यानैकनिष्ठचित्तत्वात् आराध्य इति कथ्यते ||

देवतारूपधारित्वात् शिष्यानुग्रहकारणात् |
करुणामयमूर्तित्वात् देशिकः कथितः प्रिये ||

स्वान्तश्शक्तिसमुन्मीलत्परतत्त्वार्थचिन्तनात् |
मिथ्याज्ञानविहीनत्वात् स्वामीति कथितः प्रिये ||

मनोदोषादिदूरत्वात् हेतुवादादिवर्जनात् |
श्वादिप्राणिषु सादृश्यात् रम्यत्वाच्च महेश्वरः ||

श्रीमोक्षज्ञानदातृत्वात् नादब्रह्मावबोधनात् |
स्थगिताज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये ||

देशकालाविरोधेन वर्तमानात् कुलागमे |
वशीकृतजगज्जीवाद्देव इत्यभिधीयते ||

भवपाशप्रशमनात् टङ्कारेन्दुकशेखरात् |
रक्षणात् कमनीयत्वात् भट्टारक इतीरितः ||

प्रगुप्तागमवेदान्तरहस्यार्थविमर्शनात् |
भुक्तिमुक्तिप्रदानाच्च प्रभुरित्यभिधीयते ||

योनिमुद्रानुसन्धानात् प्रस्फुरन्मन्त्रवैभवात् |
गीर्वाणगणपूज्यत्वात् योगीति कथितः प्रिये ||

सङ्गदुःखपरित्यागात् यत्रकुत्राश्रमाश्रयात् |
मिथ आत्मनिबन्धत्वात् संयमीत्यभिधीयते ||

अक्षरत्वात् वरेण्यत्वात् धूतसम्सारबन्धनात् |
तत्त्वमस्यार्थसिद्धत्वात् अवधूतोऽभिधीयते ||

यथा घटश्च कलशः कुम्भशैकार्थवाचकः |
तथा देवश्च मन्त्रश्च गुरुश्चैकार्थ उच्यते ||

|| सर्वमूलगुरुरूपिण्यै श्रीपराम्बायै नमः ||

Facebook
Twitter
LinkedIn