Varaha Mantra Nirupnama

 

Mahavaraha

 

श्रीसूत उवाच
शृणुध्वं मुनयः सर्वे कथाम्पुण्यां पुरातनीम् |
वैवस्वतेऽन्तरे पूर्वं कृते पुण्यतमे युगे ||
नारायणाद्रौ देवेशं निवसन्तं क्षमापतिम् |
वराहरूपिणं देवं धरणी सखिभिर्वृता |
प्रणम्य परिपप्रच्छ रक्तपद्मायतेक्षणम् ||

धरण्युवाच
आराध्यः केन मन्त्रेण भवान् प्रीतो भविष्यति |
तं मे वद त्वं देवेश यः प्रियो भवतः सदा ||
अन्ते यस्त्वत्पदप्राप्तिं ददाति नियतात्मनाम् |
एवं भूतं वद प्रीत्या मयि वाराह मानद ||

श्रीसूत उवाच
इति पृष्टस्तया भूम्या प्राह प्रीतिस्मिताननः ||

श्रीवराह उवाच
शृणु देवि परं गुह्यं सद्यः सम्पत्तिकारकम् |
भूमिदं पुत्रदं गोप्यमप्रकाश्यं कदाचन ||
ॐ नमः श्रीवराहाय धरण्युद्धरणाय च |
वह्निजायासमायुक्तः सदा जप्यो मुमुक्षुभिः ||
अयं मन्त्रो धरादेवि सर्वसिद्धिप्रदायकः |
ऋषिः सङ्कर्षणः प्रोक्तो देवता त्वहमेव हि ||
छन्दः पङ्क्तिः समाख्याता श्रीं बीजं समुदाहृतम् |
चतुर्लक्षं जपेन्मन्त्रं सद्गुरोर्लब्धतन्मनुः ||
अथ ध्यानं प्रवक्ष्यामि मनःशुद्धिप्रदायकम् |
शुद्धस्फटिकशैलाभं रक्तपद्मदलेक्षणम् ||
वराहवदनं सौम्यं चतुर्बाहुं किरीटिनम् |
श्रीवत्सवक्षसं चक्रशङ्खाभयकराम्बुजम् ||
वामोरुस्थितया युक्तं त्वया मां सागराम्बरे |
रक्तपीताम्बरधरं रक्ताभरणभूषितम् ||
श्रीकूर्मपृष्ठमध्यस्थशेषमूर्त्यब्जसंस्थितम् |
एवं ध्यात्वा जपेन्मन्त्रं सदा चाऽष्टोत्तरं शतम् |
सर्वान्कामानवाप्नोति मोक्षञ्चाऽन्ते व्रजेद् ध्रुवम् ||

 

Facebook
Twitter
LinkedIn