The Greatness of Panchakshari Mahamantra

 

Panchamukha Sadashiva

 

देव देव महादेव सर्वज्ञ करुणानिधे |
श्रीमत्पञ्चाक्षरी विद्या साक्षान्मोक्षप्रदायिनी |
सर्वमोक्षप्रदं मन्त्रं भ्रूहि मे परमेश्वर ||

शिवः
मन्त्राणां सिद्धिदं मन्त्रं कलौ सिद्धिप्रदायकम् |
रहस्यं परमं दिव्यं न देयं यत्र कुत्रचित् ||
सर्वैश्वर्यप्रदं मन्त्रं ज्ञानैश्वर्यप्रदायकम् |
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ||
सर्वदः शङ्करश्चैव प्रेतापस्मारकादयः |
शिरोरोगादि षट् त्रिंशत् व्याधीनां मोचनेऽपि च ||
चतुरुत्तरचत्वारि ग्रन्थिरोगादयस्तथा |
शल्यतन्त्रोत्थशून्याश्च क्रूरव्याधिनिवारणम् ||
सिंहव्याघ्रवराहाणां शुककीटादिकान्यपि |
सर्वौषधीनां सर्वासां कृमिकीटादिवारणम् ||
बालग्रहादि रोगाणां अश्वानां शान्तिकारकम् |
सर्वपक्षिग्रहादीनां शेलेष्मसंभवकानपि ||
ज्वरादयश्च सर्वेऽपि सन्निपातादयस्तता |
क्षीरशोषणके चैव पशूनामपि सर्वशः ||
स्त्रीणामपि च वन्ध्यानां विशेषात्पुत्रदायकम् |
उन्मादशमनं चैव सर्वशूलनिवाणम् ||
गजानामपि रोगाश्च अजानां महिषानपि |
स्त्रीणामपि च विद्वेषो राजविद्वेषणेऽपि च ||
वश्यमाकर्षणं चैव मोहनं स्तम्भनं तथा |
उच्चाटनं मारणं च चोरारिभयनाशनम् ||
मार्गमध्ये विशेषेण विपिने शत्रुसंकटे |
अभीष्टकन्याग्रहणे राजकन्यागमेऽपि च ||
भूतप्रेतपिशाचानां सत्यावेशकरं तथा |
सर्वशान्त्यै प्रयोगोऽत्र मन्त्रं सर्वार्थसाधकम् ||
तव स्नेहेन वक्ष्यामि मन्त्राणामुत्तमोत्तमम् |
पञ्चाक्षरात्परं नास्ति लोके च भुवनत्रये ||
तस्मान्नास्त्यधिको लोके मन्त्राणामुत्तमोत्तमम् ||

 

Facebook
Twitter
LinkedIn